AD EDUXIAN JOURNAL

(A QUARTERLY MULTIDISCIPLINARY BLIND PEER REVIEWED & REFEREED ONLINE INTERNATIONAL JOURNAL)
YEAR: 2024 E- ISSN:3048-7951

उपनिषदां सूत्रतुल्यत्वम् उपदेशभङ्गिभेदश्च

Acceptance: 04/01/2025

Published: 04/02/2025

Abstract

उप+नि-उपसर्गपूर्वकस्य विशरणगत्यवसादनार्थकस्य ‘षदलृ’ धातोः क्विबन्तस्य रूपमिदमु पनिषदिति। ‘उप’ शब्दो हि समीप्यमाह, ‘नि’ शब्दश्च निश्चयार्थः। गुरोः समीपं स्थित्वा श्रद्धापूर्वकं प्राप्यमानं गुप्तज्ञानमेव ‘उपनिषद्’ इति। “सेयं ब्रह्मविद्या उपनिषच्छव्दवाच्या, तदपराणां सहेतोः संसारस्यात्यन्तावसादनात्। उप-नि-पूर्वस्य सदेस्तदर्थत्वात्, तादर्थ्याद, ग्रन्थोऽपि उपनिषदुच्यते”- श्रीमत्शङ्करभगवत्पादैः। उपनिषत्प्रस्थानं नाम वेदान्तः। प्रस्थानं नाम प्रस्थीयतेऽनेनेति प्रस्थानं मार्गः। प्रस्थानत्रय्यां प्रमुखा तथा प्रधानैवोपनिषद्। “त्वं त्वौपनिषदं पुरुषं पृच्छामि” इति श्रुत्यनुसारेण। यद्यपि सूत्रकारैः भाष्यकारैः वा न कुत्रापि प्रस्थानशब्देन व्यवहृतम् तथापि वेदान्तशास्त्रनिबन्धकारैः व्यवहृतम्। एवमेव सूत्रप्रस्थानं गीताप्रस्थानमिति भण्यते। संस्कृतवाङमयं द्विविधं लौकिकं वैदिकञ्चेति। वैदिकसाहित्ये संहिता-ब्राह्मणरण्यकोपनिषदः स्मरन्ति मनीषिणः।‘उपनिषत्’ वैदिकवाङमयान्तर्गता। वेदस्य अंशद्वयं मन्त्रो ब्राह्मणञ्चेति। मन्त्रभागः संहिताभागनाम्नाऽपि सम्बोध्यते। प्रायशो मन्राः पद्ये ब्राह्मणानि गद्ये सन्ति। विशेषतो यज्ञादीनां विधिः ब्राह्मणे समुपवर्णितोऽस्ति। ब्राह्मणभागस्यारण्यको भाग आरण्यक नाम्ना प्रथते। आरण्यकेषु एकान्तस्थाने स्थित्वा जगद्रहस्यविषये निगूढतरं चिन्तनं उपलभ्यते। तथा हि यागादिप्रतिपादकेभ्यो विधिनिषेधरूपेभ्यो विचारेभ्यो निवृत्तिस्तया च दार्शनिकचिन्तनेषु प्रवृत्तिः प्रदर्शिता लक्ष्यते। अन्तिमो भागराशिः उपनिषदस्ति। यस्यां हि वैदिकदर्शनसारतत्वं संग्रहितमस्ति। ब्राह्मणस्य (विधायकं वाक्यं ब्राह्मणम्) पूर्वभागो मन्त्रभागश्च कर्मकाण्डप्रधानौ स्तः। अन्तिमो भागस्तु (उपनिषद्) ज्ञानकाण्ड इति स्वीक्रियते। अर्थात् कर्मभावनया ब्राह्मणग्रन्थानां ज्ञानभावनया चोपनिषदां विभागो जातः। कर्मकाण्डप्रधानेषु ब्राह्मणग्रन्थेषु विहितान् पशुहिंसादीन् प्रति विचारवतां मनीषिणां हृदये कर्मकाण्डं प्रति किलाविश्वासो जागर्ति स्म। कर्मकाण्डस्य विरोध एव ज्ञानकाण्ड स्याभ्युदयो जातः यत्प्रतिपादका ग्रन्था उपनिषदः

Keynote: उपनिषदां सूत्रतुल्यत्वम् उपदेशभङ्गिभेदश्च

Author Name:

डॉ. सञ्जीव सरकार

Pages:

303-308

DOI Number:

02.2025-11314134

Writer Name

डॉ. सञ्जीव सरकार

Pages

303-308

DOI Numbers

02.2025-11314134

Our Social Networks

AD EDUXIAN Publication is dedicated to advancing educational research and providing innovative learning solutions. We offer a wide range of services including publishing, editing, design, and marketing to support authors and researchers in their academic and professional endeavors.

Never miss any important news. Subscribe to our newsletter.